|
|
 |
 |
|
|
११ स्त्रीपर्व.jpg)
॥ श्रीः ॥
11.9. अध्यायः 009
Mahabharata - Strii Parva - Chapter Topics
धृतराष्ट्रेण गान्धरीप्रभृतिभिः स्त्रीभिः सह मृतजनावलोकनाय रणाङ्कणम्प्रति प्रयाणम्॥ 1 ॥

Mahabharata - Strii Parva - Chapter Text
`जनमेजय उवाच। 11-9-0x(5333)(65053)
गते व्यासे तु धर्मात्मा धृतराष्ट्रो महीपतिः।
किमचेष्टत विप्रर्षे तन्मे व्याख्यातुमर्हसि॥ 11-9-1(65054)
वैशम्पायन उवाच। 11-9-2x(5334)
एतच्छ्रुत्वा नरश्रेष्ठश्चिरं ध्यात्वा त्वचेतनः।
सञ्जयं योजयेत्युक्त्वा विदुरं प्रत्यभाषत॥ 11-9-2(65055)
क्षिप्रमानय गान्धारीं सर्वाश्च भरतस्त्रियः।
कुन्तीं चैव तथा क्षत्तः समानय ममाऽन्तिकम्'॥ 11-9-3(65056)
एवमुक्त्वा स धर्मात्मा विदुरं धर्मवित्तमम्।
शोकविप्रहतज्ञानो यानमेवान्वरोहत॥ 11-9-4(65057)
गान्धारी पुत्रशोकार्ता भर्तुर्वचननोदिता।
सह कुन्त्या यतो राजा सह स्त्रीभिरुपाद्रवत्॥ 11-9-5(65058)
ताः समासाद्य राजानं भृशं शोकसमन्विताः।
आमन्त्र्यान्योन्यमायस्ता भृशमुच्चुक्रुशुस्ततः॥ 11-9-6(65059)
ताः समाश्वासयत्क्षत्ता ताभ्यश्चार्ततरः स्वयम्।
अश्रुकण्ठीः समारोप्य ततोऽसौ निर्ययौ पुरात्॥ 11-9-7(65060)
ततः प्रणादः सञ्जज्ञे सर्वेषु कुरुवेश्मसु।
आकुमारं पुरं सर्वमभवच्छोककर्शितम्॥ 11-9-8(65061)
अदृष्टपूर्वा या नार्यः पुरा देवगणैरपि।
पृथग्जनेन दृश्यन्ते तास्तदा निहतेश्वराः॥ 11-9-9(65062)
प्रकीर्य केशान्सुशुभान्भूषणान्यवमुच्य च।
एकवस्त्रधरा नार्यः परिपेतुरनाथवत्॥ 11-9-10(65063)
श्वतेपर्वतरूपेभ्यो गृहेभ्यस्ता निराक्रमन्।
गुहाभ्य इव शैलानां पृषत्यो हतयूथपाः॥ 11-9-11(65064)
तान्युदीर्णानि नारीणां तदा वृन्दान्यनेकशः।
शोकार्तान्यद्रवन्राजन्किशोरीणामिवाङ्गणे॥ 11-9-12(65065)
प्रगृह्य बाहून्क्रोशन्त्यः पुत्रान्भ्रातॄन्पितॄनपि।
दर्शयन्ति हता हि स्म युगान्ते लोकसङ्क्षयम्॥ 11-9-13(65066)
विलपन्त्यो रुदन्त्यश्च धावमानास्ततस्ततः।
शोकेनोपहतज्ञाताः कर्तव्यं न प्रजज्ञिरे॥ 11-9-14(65067)
व्रीडां जग्मुः पुरा याः स्म सखीनामपि योषितः।
ता एकवस्त्रा निर्लज्जाः श्वश्रूणां पुरतोऽभवन्॥ 11-9-15(65068)
परस्परं सुसूक्ष्मेषु शोकेष्वाश्वासयन्ति याः।
ताः शोकविह्वला राजन्नवैक्षन्त परस्परम्॥ 11-9-16(65069)
ताभिः परिवृतो राजा रुदतीभिः सहस्रशः।
निर्ययौ नगराद्दीनस्तूर्णमायोधनं प्रति॥ 11-9-17(65070)
शिल्पिनो वणिजो वैश्याः सर्वे कर्मोपजीविनः।
ते पार्थिवं पुरस्कृत्य निर्ययुर्नगराद्बहिः॥ 11-9-18(65071)
तेषां विक्रोशमानानामार्तानां कुरुसङ्क्षये।
प्रादुरासीन्महाञ्शब्दो व्यथयन्भुवनान्युत॥ 11-9-19(65072)
युगान्तकाले सम्प्राप्ते भूतानां दह्यतामिव।
अभावस्योदयः प्राप्त इति भूतानि मेनिरे॥ 11-9-20(65073)
भृशमुद्विग्नमनसस्ते पौराः कुरुसङ्क्षये।
प्राक्रोशन्त महाराज स्वनुरक्तास्तदा भृशम्॥ ॥ 11-9-21(65074)
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि नवमोऽध्यायः॥ 9 ॥
Mahabharata - Strii Parva - Chapter Text
वैशम्पायन उवाच। 11-9-0x(5335)(65075)
विदुरस्य तु तद्वाक्यं श्रुत्वा तु पुरुषर्षभः।
युज्यतां यानमित्युक्त्वा पुनर्वचनमव्रवीत्॥ 11-9-1(65076)
धृतराष्ट्र उवाच। 11-9-2x(5336)
11-9-2(65077)
शीघ्रमानय गान्धारीं सर्वाश्च भरतस्त्रियः।
वधूं कुन्तीमुपादाय याश्चान्यास्तत्र योषितः॥
Mahabharata - Strii Parva - Chapter Footnotes
11-9-4 विगता प्रज्ञा व्यासदत्तं दिव्यज्ञानं यस्य स विगतप्रज्ञः॥ 11-9-7 समारोप्य वाहनेष्विति शेषः॥ 11-9-11 शोकस्यातिगाढत्वात्पुनर्विदुरेणोक्तं अभावदीनीत्यादि॥ 11-9-15 संवर्तयति वर्तुलयति कम्पयति वा॥ 11-9-21 आचक्षे कथयामि॥ 11-9-23 कार्यं अवश्यकर्तव्यमुदकदानादि॥ 11-9-11 पृषत्यश्चित्रहरिण्यः॥ 11-9-12 अङ्गमे नृत्यशिक्षाभूमौ॥ 11-9-9 नवमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|